top of page

Gopi Geet

॥ गोपीगीतम् ॥

गोप्य ऊचुः ।

जयति तेऽधिकं जन्मना व्रजः

 श्रयत इन्दिरा शश्वदत्र हि ।

दयित दृश्यतां दिक्षु तावका-

   स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १॥

शरदुदाशये साधुजातस-

  त्सरसिजोदरश्रीमुषा दृशा ।

सुरतनाथ तेऽशुल्कदासिका

  वरद निघ्नतो नेह किं वधः ॥ २॥

विषजलाप्ययाद्व्यालराक्षसा-

    द्वर्षमारुताद्वैद्युतानलात् ।

वृषमयात्मजाद्विश्वतोभया-

    दृषभ ते वयं रक्षिता मुहुः ॥ ३॥

न खलु गोपिकानन्दनो भवा-

    नखिलदेहिनामन्तरात्मदृक् ।

विखनसार्थितो विश्वगुप्तये

    सख उदेयिवान्सात्वतां कुले ॥ ४॥

विरचिताभयं वृष्णिधुर्य ते

    चरणमीयुषां संसृतेर्भयात् ।

करसरोरुहं कान्त कामदं

    शिरसि धेहि नः श्रीकरग्रहम् ॥ ५॥

व्रजजनार्तिहन्वीर योषितां

    निजजनस्मयध्वंसनस्मित ।

भज सखे भवत्किंकरीः स्म नो

    जलरुहाननं चारु दर्शय ॥ ६॥

प्रणतदेहिनां पापकर्शनं

   तृणचरानुगं श्रीनिकेतनम् ।

फणिफणार्पितं ते पदांबुजं

    कृणु कुचेषु नः कृन्धि हृच्छयम् ॥७॥

 

मधुरया गिरा वल्गुवाक्यया

    बुधमनोज्ञया पुष्करेक्षण ।

विधिकरीरिमा वीर मुह्यती-

    रधरसीधुनाऽऽप्याययस्व नः ॥ ८॥

तव कथामृतं तप्तजीवनं

    कविभिरीडितं कल्मषापहम् ।

श्रवणमङ्गलं श्रीमदाततं

    भुवि गृणन्ति ते भूरिदा जनाः ॥ ९॥

प्रहसितं प्रिय प्रेमवीक्षणं

    विहरणं च ते ध्यानमङ्गलम् ।

रहसि संविदो या हृदिस्पृशः

    कुहक नो मनः क्षोभयन्ति हि ॥ १०॥

चलसि यद्व्रजाच्चारयन्पशून्

    नलिनसुन्दरं नाथ ते पदम् ।

शिलतृणाङ्कुरैः सीदतीति नः

    कलिलतां मनः कान्त गच्छति ॥ ११॥

दिनपरिक्षये नीलकुन्तलै-

    र्वनरुहाननं बिभ्रदावृतम् ।

घनरजस्वलं दर्शयन्मुहु-

    र्मनसि नः स्मरं वीर यच्छसि ॥ १२॥

प्रणतकामदं पद्मजार्चितं

    धरणिमण्डनं ध्येयमापदि ।

चरणपङ्कजं शंतमं च ते

    रमण नः स्तनेष्वर्पयाधिहन् ॥ १३॥

सुरतवर्धनं शोकनाशनं

    स्वरितवेणुना सुष्ठु चुम्बितम् ।

इतररागविस्मारणं नृणां

    वितर वीर नस्तेऽधरामृतम् ॥ १४॥

अटति यद्भवानह्नि काननं

    त्रुटिर्युगायते त्वामपश्यताम् ।

कुटिलकुन्तलं श्रीमुखं च ते

    जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥ १५॥

पतिसुतान्वयभ्रातृबान्धवा-

    नतिविलङ्घ्य तेऽन्त्यच्युतागताः ।

गतिविदस्तवोद्गीतमोहिताः

    कितव योषितः कस्त्यजेन्निशि ॥ १६॥

रहसि संविदं हृच्छयोदयं

    प्रहसिताननं प्रेमवीक्षणम् ।

बृहदुरः श्रियो वीक्ष्य धाम ते

    मुहुरतिस्पृहा मुह्यते मनः ॥ १७॥

व्रजवनौकसां व्यक्तिरङ्ग ते

    वृजिनहन्त्र्यलं विश्वमङ्गलम् ।

त्यज मनाक् च नस्त्वत्स्पृहात्मनां

    स्वजनहृद्रुजां यन्निषूदनम् ॥ १८॥

यत्ते सुजातचरणाम्बुरुहं स्तनेष

    भीताः शनैः प्रिय दधीमहि कर्कशेषु ।

तेनाटवीमटसि तद्व्यथते न किंस्वित्

    कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ १९॥

abb2407adbb98669778e9e88d1bda8da.jpg
bottom of page